|
|
 |
 |
|
|
२ सभापर्व.jpg)
॥ श्रीः ॥
2.61. अध्यायः 061
Mahabharata - Sabha Parva - Chapter Topics
भीष्मेण नरकबाणासुरप्रमुखदुष्टनिग्रहादिरूपातीतानागतकृष्णचरित्रनिरूपणम्॥ 1॥।
Mahabharata - Sabha Parva - Chapter Text
भीष्ण उवाच॥
सूदिता द्वारपालाश्च निशुम्भनरकौ हतौ।
कृतक्षेमः पुनः पन्थाः पुरं प्राग्ज्योतिषं प्रति॥ 2-61-1(13741)
शौरिणा पृथिवीपालास्त्रासिता भरतर्षभ।
धनुषश्च प्रणादेन पाञ्चजन्यस्वनेन च॥ 2-61-2(13742)
मेघप्रख्यैरनेकैश्च दाक्षिणात्याभिसंवृतम्।
रुक्मिणं त्रासयामास केशवो भरतर्षभ॥ 2-61-3(13743)
ततः पर्जन्यघोषेण रथेनादित्यवर्चसा।
उवाह महिषीं भोज्यामेष चक्रगदाधरः॥ 2-61-4(13744)
जारूथ्य आहृतक्रोधः शिशुपालश्च निर्जितः।
वक्रश्च स हतः सङ्ख्ये शतधन्वा च क्षत्रियः॥ 2-61-5(13745)
इन्द्रद्युम्नो हतः कोपाद्यवनश्च कशेरुकः।
हतः सौभपतिश्चैव साल्वश्च कृतधन्वना॥ 2-61-6(13746)
पर्वतानां सहस्रं च चक्रेण पुरुषोत्तमः।
विभज्य पुण्डरीकाक्षो द्युमत्सेनमपोथयत्॥ 2-61-7(13747)
महेन्द्रशिखरे चैव निमेषान्तरचारिणौ।
जग्राह भरतश्रेष्ठ वानरावभितश्चरौ॥ 2-61-8(13748)
इरावत्यां महाभोजो वह्निसूर्यसमो बले।
गोपतिस्तालकेतुश्च निहतौ शार्ङ्गधन्वना॥ 2-61-9(13749)
अक्षप्रपत्तने राजन्नवहेलनतत्परौ।
उभौ तावपि कृष्णेन स्वराष्ट्रे विनिपातितौ॥ 2-61-10(13750)
दग्धा वाराणसी तात केशवेन महात्मना।
पाण्ड्यं पौण्ड्रं च मात्स्यं च कलिङ्गं च जनार्दनः॥ 2-61-11(13751)
जघान सहितान्सर्वानङ्गराजं च माधवः॥ 2-61-12(13752)
एष चैव शतं हत्वा रथेन क्षत्रपुङ्गवान्।
गान्धारीमवहत्कृष्णो महिषीं यादवर्षभः॥ 2-61-13(13753)
अथ गाण्डीवधन्वानं क्रीडार्थं मधुसूदनः।
जिगाय भरतश्रेष्ठ कुन्त्याश्च प्रमुखे विभुः॥ 2-61-14(13754)
द्रौणिं कृपं च कर्णं च भीमसेनं सुयोधनम्।
युद्धाय सहितान्त्राजञ्जिगाय भरतर्षभ॥ 2-61-15(13755)
बभ्रोश्च प्रियमन्विच्छन्नेष चक्रगदाधरः।
वेणुदारिवृतां भार्यां प्रममाथ युधिष्ठिर॥ 2-61-16(13756)
पर्याप्तां पृथिवीं सर्वां साश्वां सरथकुञ्जराम्।
वेणुदारिवशे युक्तां जिगाय मधुसूदनः॥ 2-61-17(13757)
अवाप्य तपसा वीर्यं बलमोजश्च भारत।
त्रासिताः सगणाः सर्वे बाणेन विबुधाधिपाः॥ 2-61-18(13758)
वज्राशनिगदाबामैस्ताडयद्भिरनेकशः।
तस्य नासीद्रणे मृत्युर्देवैरपि सवासवैः॥ 2-61-19(13759)
सोऽभिभूतश्च कृष्णेन न हतश्च मगात्मना।
छित्वा बाहुसहस्रं तु गोविन्देन महात्मना॥ 2-61-20(13760)
एषोऽपीडन्महाबाहुः कंसं च मधुसूदनः।
अवाप्तं तपसा वीर्यं बलमोजश्च भारत।
कैटभं चातिलोमानि निजघान जनार्दनः॥ 2-61-21(13761)
जम्बुमैरावतं चैव विरूपं च महायशाः। 2-61-22bजघान भरतश्रेष्ठ शम्बरं चारिमर्दनम्॥ 2-61-22(13762)
एष भोगवतीं गत्वा वासुकिं भरतर्षभ।
निर्जित्य पुण्डरीकाक्षो रौक्मिणेयममोचयत्॥ 2-61-23(13763)
एवं बहूनि कर्माणि शिशुरेव जनार्दनः।
कृतवान्पुण्डरीकाक्षः सङ्कर्षणसहायवान्॥ 2-61-24(13764)
एवमेषोऽसुराणां चसुराणामपि सर्वशः।
भयामयकरः कृष्णः सर्वलोकेश्वरः प्रभुः॥ 2-61-25(13765)
एवमेव महाबाहुः शास्ता सर्वदुरात्मनाम्।
कृत्वा देवार्थममितं स्वस्थानं प्राप्स्यते पुनः॥ 2-61-26(13766)
एष भोगवतीं पुण्यां रविकान्तिं महायशाः।
द्वारकामात्मसात्कृत्वा सागरं प्लावयिष्यति॥ 2-61-27(13767)
सुरासुरमनुष्येषु नाभून्न भविता क्वचित्।
यस्तामध्यवसद्राजा नान्यत्र मधुसूदनात्॥ 2-61-28(13768)
भ्राजमानास्तु वै सर्वे वृष्ण्यन्धकमहारथाः।
तेजिष्ठं प्रतिपत्स्यन्ते नाकपृष्टं गतासवः॥ 2-61-29(13769)
एवमेव दशार्हाणां विधाय विधिना विधिम्।
विष्णुर्नारायणः साक्षात्स्वस्थानं प्राप्स्यते ध्रुवम्॥ 2-61-30(13770)
अप्रमेयोऽनियोज्यश्च यत्र कामगमो वशी। 2-61-32ab मोदते भगवान्प्रीतो वालः क्रीडानकैरिव॥ 2-61-31(13771)
नैष गर्भत्वमापेदे न योन्यामावसत्प्रभुः।
आत्मनस्तेजसा कृष्णः सर्वेषां कुरुते गतिम्॥ 2-61-32(13772)
यथा बुद्बुद उत्थाय तत्रैव प्रविलीयते।
चराचराणि भूतानि तथा नारायणे सदा॥ 2-61-33(13773)
न प्रमातुं महाबाहुः शक्यो भारत केशवः।
परं हि परतस्तस्माद्विश्वरूपान्न विद्यते॥ ॥ 2-61-34(13774)
इति श्रीमन्महाभारते सभापर्वणि अर्घाहरणपर्वणि एकषष्टितमोऽध्यायः॥ 61॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|